Sukta 5.80
एषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाती दृशये नो अस्थात् । अप द्वेषो बाधमाना तमांस्युषा दिवो दुहिता ज्योतिषागात् ॥
ए॒षा शु॒भ्रा न त॒न्वो॑ विदा॒नोर्ध्वेव॑ स्ना॒ती दृ॒शये॑ नो अस्थात् । अप॒ द्वेषो॒ बाध॑माना॒ तमां॑स्यु॒षा दि॒वो दु॑हि॒ता ज्योति॒षागा॑त् ॥
eṣā́ śubhrā́ ná tanvò vidānórdhveva snātī́ dṛśáye no asthāt | ápa dvéṣo bādhamānā́ tamāṃsy uṣā́ divó duhitā́ jyotiṣā́gāt ||
This Dawn, pure and bright, knowing her own form, has stood for our seeing like one who rises and is bathed in radiance. Driving away hostility and the darknesses, Ushas, the daughter of Heaven, has come with light.
ए॒षा । शु॒भ्रा । न । त॒न्वः॑ । वि॒दा॒ना । ऊ॒र्ध्वाऽइ॑व । स्ना॒ती । दृ॒शये॑ । नः॒ । अ॒स्था॒त् । अप॑ । द्वेषः॑ । बाध॑माना । तमां॑सि । उ॒षाः । दि॒वः । दु॒हि॒ता । ज्योति॑षा । आ । अ॒गा॒त् ॥एषा । शुभ्रा । न । तन्वः । विदाना । ऊर्ध्वाइव । स्नाती । दृशये । नः । अस्थात् । अप । द्वेषः । बाधमाना । तमांसि । उषाः । दिवः । दुहिता । ज्योतिषा । आ । अगात् ॥eṣā | śubhrā | na | tanvaḥ | vidānā | ūrdhvāiva | snātī | dṛśaye | naḥ | asthāt | apa | dveṣaḥ | bādhamānā | tamāṃsi | uṣāḥ | divaḥ | duhitā | jyotiṣā | ā | agāt