Sukta 5.80
एषा प्रतीची दुहिता दिवो नॄन्योषेव भद्रा नि रिणीते अप्सः । व्यूर्ण्वती दाशुषे वार्याणि पुनर्ज्योतिर्युवतिः पूर्वथाकः ॥
ए॒षा प्र॑ती॒ची दु॑हि॒ता दि॒वो नॄन्योषे॑व भ॒द्रा नि रि॑णीते॒ अप्स॑: । व्यू॒र्ण्व॒ती दा॒शुषे॒ वार्या॑णि॒ पुन॒र्ज्योति॑र्युव॒तिः पू॒र्वथा॑कः ॥
eṣā́ pratī́cī duhitā́ divó nṝ́n yoṣéva bhadrā́ ní riṇīte ápsaḥ | vy-ūrṇvatī́ dāśúṣe vā́ryāṇi púner jyótir yuvatíḥ pū́rva-thā́kaḥ ||
This Dawn, returning again, the daughter of Heaven, like a gracious woman, draws human beings toward her active beauty and work. Unfolding her desirable gifts to the giver, the young one re-establishes the light again, as in the former way.
ए॒षा । प्र॒ती॒ची । दु॒हि॒ता । दि॒वः । नॄन् । योषा॑ऽइव । भ॒द्रा । नि । रि॒णी॒ते॒ । अप्सः॑ । वि॒ऽऊ॒र्ण्व॒ती । दा॒शुषे॑ । वार्या॑णि । पुनः॑ । ज्योतिः॑ । यु॒व॒तिः । पू॒र्वऽथा॑ । अ॒क॒रित्य॑कः ॥एषा । प्रतीची । दुहिता । दिवः । नॄन् । योषाइव । भद्रा । नि । रिणीते । अप्सः । विऊर्ण्वती । दाशुषे । वार्याणि । पुनः । ज्योतिः । युवतिः । पूर्वथा । अकरित्यकः ॥eṣā | pratīcī | duhitā | divaḥ | nṝn | yoṣāiva | bhadrā | ni | riṇīte | apsaḥ | vi-ūrṇvatī | dāśuṣe | vāryāṇi | punaḥ | jyotiḥ | yuvatiḥ | pūrva-thā | akar ity akaḥ