Sukta 5.80
एषा व्येनी भवति द्विबर्हा आविष्कृण्वाना तन्वं पुरस्तात् । ऋतस्य पन्थामन्वेति साधु प्रजानतीव न दिशो मिनाति ॥
ए॒षा व्ये॑नी भवति द्वि॒बर्हा॑ आविष्कृण्वा॒ना त॒न्वं॑ पु॒रस्ता॑त् । ऋ॒तस्य॒ पन्था॒मन्वे॑ति सा॒धु प्र॑जान॒तीव॒ न दिशो॑ मिनाति ॥
eṣā́ vyènī bhavati dvi-bárhā āviḥ-kṛṇvānā́ tanvàṃ purástāt | ṛtásya pánthām ánv eti sādhú prajānátīva ná díśo mināti ||
She becomes the wide-spreading one, double-bearing in her power, revealing her body in front. She follows well the path of ṛta; as one who knows, she does not disturb the directions—she keeps the right orientation of the being.
ए॒षा । विऽए॑नी । भ॒व॒ति॒ । द्वि॒ऽबर्हाः॑ । आ॒विः॒ऽकृ॒ण्वा॒ना । त॒न्व॑म् । पु॒रस्ता॑त् । ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ए॒ति॒ । सा॒धु । प्र॒ऽजा॒न॒तीऽइ॑व । न । दिशः॑ । मि॒ना॒ति॒ ॥एषा । विएनी । भवति । द्विबर्हाः । आविःकृण्वाना । तन्वम् । पुरस्तात् । ऋतस्य । पन्थाम् । अनु । एति । साधु । प्रजानतीइव । न । दिशः । मिनाति ॥eṣā | vi-enī | bhavati | dvi-barhāḥ | āviḥ-kṛṇvānā | tanvam | purastāt | ṛtasya | panthām | anu | eti | sādhu | pra-jānatī-iva | na | diśaḥ | mināti