Sukta 5.80
एषा जनं दर्शता बोधयन्ती सुगान्पथः कृण्वती यात्यग्रे । बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर्यच्छत्यग्रे अह्नाम् ॥
ए॒षा जनं॑ दर्श॒ता बो॒धय॑न्ती सु॒गान्प॒थः कृ॑ण्व॒ती या॒त्यग्रे॑ । बृ॒ह॒द्र॒था बृ॑ह॒ती वि॑श्वमि॒न्वोषा ज्योति॑र्यच्छ॒त्यग्रे॒ अह्ना॑म् ॥
eṣā́ jánam darśatā́ bódhayantī sugā́n patháḥ kṛṇvatī yā́ty ágre | bṛhád-rathā bṛhatī́ viśvám-invā́ uṣā́ jyótir yacchaty ágre áhnām ||
She, beautiful to behold, awakens the human being; she makes the paths good to go and moves in front. Vast in her chariot, vast in her being, impelling all forward, Ushas sets the light at the head of the days.
ए॒षा । जन॑म् । द॒र्श॒ता । बो॒धय॑न्ती । सु॒ऽमान् । प॒थः । कृ॒ण्व॒ती । या॒ति॒ । अग्रे॑ । बृ॒ह॒त्ऽर॒था । बृ॒ह॒ती । वि॒श्व॒म्ऽइ॒न्वा । उ॒षाः । ज्योतिः॑ । य॒च्छ॒ति॒ । अग्रे॑ । अह्ना॑म् ॥एषा । जनम् । दर्शता । बोधयन्ती । सुमान् । पथः । कृण्वती । याति । अग्रे । बृहत्रथा । बृहती । विश्वम्इन्वा । उषाः । ज्योतिः । यच्छति । अग्रे । अह्नाम् ॥eṣā | janam | darśatā | bodhayantī | su-mān | pathaḥ | kṛṇvatī | yāti | agre | bṛhat-rathā | bṛhatī | viśvam-invā | uṣāḥ | jyotiḥ | yacchati | agre | ahnām