Sukta 5.8
त्वामग्ने अतिथिं पूर्व्यं विशः शोचिष्केशं गृहपतिं नि षेदिरे । बृहत्केतुं पुरुरूपं धनस्पृतं सुशर्माणं स्ववसं जरद्विषम् ॥
त्वाम॑ग्ने॒ अति॑थिं पू॒र्व्यं विश॑: शो॒चिष्के॑शं गृ॒हप॑तिं॒ नि षे॑दिरे । बृ॒हत्के॑तुं पुरु॒रूपं॑ धन॒स्पृतं॑ सु॒शर्मा॑णं॒ स्वव॑सं जर॒द्विष॑म् ॥
tvā́m agne átithiṃ pū́rvyaṃ víśaḥ śocíṣ-keśaṃ gṛhá-patiṃ ní ṣedire | bṛhát-ketuṃ puru-rū́paṃ dhana-spṛ́taṃ su-śármāṇaṃ su-vávasaṃ jarad-víṣam ||
You, O Agni, the peoples have seated as the ancient guest—flame-haired—lord of the home: with vast banner of light, of many forms, touching the riches, bringing good shelter, of good giving, consuming what is old and toxic.
त्वाम् । अ॒ग्ने॒ । अति॑थिम् । पू॒र्व्यम् । विशः॑ । शो॒चिःऽके॑शम् । गृ॒हऽप॑तिम् । नि । से॒दि॒रे॒ । बृ॒हत्ऽके॑तुम् । पु॒रु॒ऽरूप॑म् । ध॒न॒ऽस्पृत॑म् । सु॒ऽशर्मा॑णम् । सु॒ऽअव॑सम् । ज॒र॒त्ऽविष॑म् ॥त्वाम् । अग्ने । अतिथिम् । पूर्व्यम् । विशः । शोचिःकेशम् । गृहपतिम् । नि । सेदिरे । बृहत्केतुम् । पुरुरूपम् । धनस्पृतम् । सुशर्माणम् । सुअवसम् । जरत्विषम् ॥tvām | agne | atithim | pūrvyam | viśaḥ | śociḥ-keśam | gṛha-patim | ni | sedire | bṛhat-ketum | puru-rūpam | dhana-spṛtam | su-śarmāṇam | su-avasam | jarat-viṣam