Sukta 5.8
त्वामग्न ऋतायवः समीधिरे प्रत्नं प्रत्नास ऊतये सहस्कृत । पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यम् ॥
त्वाम॑ग्न ऋता॒यव॒: समी॑धिरे प्र॒त्नं प्र॒त्नास॑ ऊ॒तये॑ सहस्कृत । पु॒रु॒श्च॒न्द्रं य॑ज॒तं वि॒श्वधा॑यसं॒ दमू॑नसं गृ॒हप॑तिं॒ वरे॑ण्यम् ॥
tvā́m agne ṛtāyávaḥ sam-ī́dhire pratnáṃ pratnā́sa ūtáye sahas-kṛta | puru-candrám yajatáṃ viśvá-dhāyasaṃ damū́nasaṃ gṛhá-patiṃ váreṇyam ||
You, O Agni, the seekers of ṛta have kindled together—you the ancient and ever-ancient—for help, O doer of might: the many-radiant, the adorable, the universal establisher, the dweller in the house, the lord of the home, the one to be chosen.
त्वाम् । अ॒ग्ने॒ । ऋ॒त॒ऽयवः॑ । सम् । ई॒धि॒रे॒ । प्र॒त्नम् । प्र॒त्नासः॑ । ऊ॒तये॑ । स॒हः॒ऽकृ॒त॒ । पु॒रु॒ऽच॒न्द्रम् । य॒ज॒तम् । वि॒श्वऽधा॑यसम् । दमू॑नसम् । गृ॒हऽप॑तिम् । वरे॑ण्यम् ॥त्वाम् । अग्ने । ऋतयवः । सम् । ईधिरे । प्रत्नम् । प्रत्नासः । ऊतये । सहःकृत । पुरुचन्द्रम् । यजतम् । विश्वधायसम् । दमूनसम् । गृहपतिम् । वरेण्यम् ॥tvām | agne | ṛta-yavaḥ | sam | īdhire | pratnam | pratnāsaḥ | ūtaye | sahaḥ-kṛta | puru-candram | yajatam | viśva-dhāyasam | damūnasam | gṛha-patim | vareṇyam