Sukta 5.77
हिरण्यत्वङ्मधुवर्णो घृतस्नुः पृक्षो वहन्ना रथो वर्तते वाम् । मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ॥
हिर॑ण्यत्व॒ङ्मधु॑वर्णो घृ॒तस्नु॒: पृक्षो॒ वह॒न्ना रथो॑ वर्तते वाम् । मनो॑जवा अश्विना॒ वात॑रंहा॒ येना॑तिया॒थो दु॑रि॒तानि॒ विश्वा॑ ॥
híraṇya-tváṅ mádhu-varṇo ghṛtá-snuḥ pṛ́kṣo váhann ā́ rathó vartate vām | máno-javā aśvinā vā́ta-raṃhā yéna ati-yā́tho duritā́ni víśvā ||
Your chariot turns hither, bearing the dappled steeds—golden-bodied, honey-hued, dripping with clarified delight. Mind-swift, wind-rushing Ashvins, by it you pass beyond all our distresses.
हिर॑ण्यऽत्वक् । मधु॑ऽवर्णः । घृ॒तऽस्नुः । पृक्षः॑ । वह॑न् । आ । रथः॑ । व॒र्त॒ते॒ । वा॒म् । मनः॑ऽजवाः । अ॒श्वि॒ना॒ । वात॑ऽरंहाः । येन॑ । अ॒ति॒ऽया॒थः । दुः॒ऽरि॒तानि॑ । विश्वा॑ ॥हिरण्यत्वक् । मधुवर्णः । घृतस्नुः । पृक्षः । वहन् । आ । रथः । वर्तते । वाम् । मनःजवाः । अश्विना । वातरंहाः । येन । अतियाथः । दुःरितानि । विश्वा ॥hiraṇya-tvak | madhu-varṇaḥ | ghṛta-snuḥ | pṛkṣaḥ | vahan | ā | rathaḥ | vatarte | vām | manaḥ-javāḥ | aśvinā | vāta-raṃhāḥ | yena | ati-yāthaḥ | duḥ-ritāni | viśvā