Sukta 5.77
प्रातर्यजध्वमश्विना हिनोत न सायमस्ति देवया अजुष्टम् । उतान्यो अस्मद्यजते वि चावः पूर्वःपूर्वो यजमानो वनीयान् ॥
प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत॒ न सा॒यम॑स्ति देव॒या अजु॑ष्टम् । उ॒तान्यो अ॒स्मद्य॑जते॒ वि चाव॒: पूर्व॑:पूर्वो॒ यज॑मानो॒ वनी॑यान् ॥
prā́tar yajadhvam aśvinā́ hinota ná sāyám asti deva-yā́ ájuṣṭam | utā́nyó asmád yajate ví cā́vaḥ pū́rvaḥ-pū́rvo yájamāno vánīyān ||
Worship in the morning; urge on the Ashvins. In the evening there is no godward offering that they accept. Another than us may worship; yet in their help, each earlier sacrificer becomes the more beloved.
प्रा॒तः । य॒ज॒ध्व॒म् । अ॒श्विना॑ । हि॒नो॒त॒ । न । सा॒यम् । अ॒स्ति॒ । दे॒व॒ऽयाः । अजु॑ष्टम् । उ॒त । अ॒न्यः । अ॒स्मत् । य॒ज॒ते॒ । वि । च॒ । आवः॒ । पूर्वः॑ऽपूर्वः । यज॑मानः । वनी॑यान् ॥प्रातः । यजध्वम् । अश्विना । हिनोत । न । सायम् । अस्ति । देवयाः । अजुष्टम् । उत । अन्यः । अस्मत् । यजते । वि । च । आवः । पूर्वःपूर्वः । यजमानः । वनीयान् ॥prātaḥ | yajadhvam | aśvinā | hinota | na | sāyam | asti | deva-yāḥ | ajuṣṭam | uta | anyaḥ | asmat | yajate | vi | ca | āvaḥ | pūrvaḥ-pūrvaḥ | yajamānaḥ | vanīyān