Sukta 5.77
प्रातर्यावाणा प्रथमा यजध्वं पुरा गृध्रादररुषः पिबातः । प्रातर्हि यज्ञमश्विना दधाते प्र शंसन्ति कवयः पूर्वभाजः ॥
प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वं पु॒रा गृध्रा॒दर॑रुषः पिबातः । प्रा॒तर्हि य॒ज्ञम॒श्विना॑ द॒धाते॒ प्र शं॑सन्ति क॒वय॑: पूर्व॒भाज॑: ॥
prātar-yā́vānā prathamā́ yajadhvaṃ purā́ gṛ́dhrād aráruṣaḥ pibātaḥ | prā́tar hí yajñám aśvinā́ dadhāte prá śaṃsanti kaváyaḥ pū́rva-bhājaḥ ||
Worship first the two who come at dawn; before the greedy forces seize it, drink, O radiant ones. For at dawn the Ashvins establish the sacrifice; the seers, sharers from of old, proclaim them forth.
प्रा॒तः॒ऽयावा॑ना । प्र॒थ॒मा । य॒ज॒ध्व॒म् । पु॒रा । गृध्रा॑त् । अर॑रुषः । पि॒बा॒तः॒ । प्रा॒तः । हि । य॒ज्ञम् । अ॒श्विना॑ । द॒धाते॒ इति॑ । प्र । शं॒स॒न्ति॒ । क॒वयः॑ । पू॒र्व॒ऽभाजः॑ ॥प्रातःयावाना । प्रथमा । यजध्वम् । पुरा । गृध्रात् । अररुषः । पिबातः । प्रातः । हि । यज्ञम् । अश्विना । दधाते इति । प्र । शंसन्ति । कवयः । पूर्वभाजः ॥prātaḥ-yāvānā | prathamā | yajadhvam | purā | gṛdhrāt | araruṣaḥ | pibātaḥ | prātaḥ | hi | yajñam | aśvinā | dadhāteiti | pra | śaṃsanti | kavayaḥ | pūrva-bhājaḥ