Sukta 5.76
उता यातं संगवे प्रातरह्नो मध्यंदिन उदिता सूर्यस्य । दिवा नक्तमवसा शंतमेन नेदानीं पीतिरश्विना ततान ॥
उ॒ता या॑तं संग॒वे प्रा॒तरह्नो॑ म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य । दिवा॒ नक्त॒मव॑सा॒ शंत॑मेन॒ नेदानीं॑ पी॒तिर॒श्विना त॑तान ॥
utā́ yātaṃ saṃgávé prā́tar áhnó madhyáṃdina ut-itā́ sū́ryasya | divā́ náktam ávasā śáṃ-tamena nédānīṃ pītír aśvinā́ tatāna ||
Come also at the union-times—at the morning of the day, at midday when the Sun stands uplifted. By day and by night, with your most peace-giving help: let not the draught of delight fail now, O Ashvins, but be spread out for us.
उ॒त । आ । या॒त॒म् । स॒म्ऽग॒वे । प्रा॒तः । अह्नः॑ । म॒ध्यन्दि॑ने । उत्ऽइ॑ता । सूर्य॑स्य । दिवा॑ । नक्त॑म् । अव॑सा । शम्ऽत॑मेन । न । इ॒दानी॑म् । पी॒तिः । अ॒श्विना॑ । आ । त॒ता॒न॒ ॥उत । आ । यातम् । सम्गवे । प्रातः । अह्नः । मध्यन्दिने । उत्इता । सूर्यस्य । दिवा । नक्तम् । अवसा । शम्तमेन । न । इदानीम् । पीतिः । अश्विना । आ । ततान ॥uta | ā | yātam | sam-gave | prātaḥ | ahnaḥ | madhyandine | ut-itā | sūryasya | divā | naktam | avasā | śam-tamena | na | idānīm | pītiḥ | aśvinā | ā | tatāna