Sukta 5.76
इदं हि वां प्रदिवि स्थानमोक इमे गृहा अश्विनेदं दुरोणम् । आ नो दिवो बृहतः पर्वतादाद्भ्यो यातमिषमूर्जं वहन्ता ॥
इ॒दं हि वां॑ प्र॒दिवि॒ स्थान॒मोक॑ इ॒मे गृ॒हा अ॑श्विने॒दं दु॑रो॒णम् । आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दाद्भ्यो या॑त॒मिष॒मूर्जं॒ वह॑न्ता ॥
idáṃ hí vāṃ pra-diví sthā́nam óka imé gṛhā́ aśvinédáṃ duróṇam | ā́ no divó bṛhatáḥ párvatād ā́ adbhyó yātaṃ íṣam ū́rjaṃ váhantā ||
This indeed is your station in the higher heaven, your home; these are the houses, O Ashvins—this is the dwelling. From the vast heaven, from the mountain, from the waters, come to us bringing the impulse of nourishment and the plenitude of energy.
इ॒दम् । हि । वा॒म् । प्र॒ऽदिवि॑ । स्थान॑म् । ओकः॑ । इ॒मे । गृ॒हाः । अ॒श्वि॒ना॒ । इ॒दम् । दु॑रो॒णम् । आ । नः॒ । दि॒वः । बृ॒ह॒तः । पर्व॑तात् । आ । अ॒त्ऽभ्यः । या॒त॒म् । इष॑म् । ऊर्ज॑म् । वह॑न्ता ॥इदम् । हि । वाम् । प्रदिवि । स्थानम् । ओकः । इमे । गृहाः । अश्विना । इदम् । दुरोणम् । आ । नः । दिवः । बृहतः । पर्वतात् । आ । अत्भ्यः । यातम् । इषम् । ऊर्जम् । वहन्ता ॥idam | hi | vām | pra-divi | sthānam | okaḥ | ime | gṛhāḥ | aśvinā | idam | duroṇam | ā | naḥ | divaḥ | bṛhataḥ | parvatāt | ā | at-bhyaḥ | yātam | iṣam | ūrjam | vahantā