Sukta 5.76
न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह । दिवाभिपित्वेऽवसागमिष्ठा प्रत्यवर्तिं दाशुषे शम्भविष्ठा ॥
न सं॑स्कृ॒तं प्र मि॑मीतो॒ गमि॒ष्ठान्ति॑ नू॒नम॒श्विनोप॑स्तुते॒ह । दिवा॑भिपि॒त्वेऽव॒साग॑मिष्ठा॒ प्रत्यव॑र्तिं दा॒शुषे॒ शम्भ॑विष्ठा ॥
ná saṃskṛtáṃ prá mimītaḥ gám-iṣṭhā ánti nūnám aśvinópa-stutéhá | divā́bhi-pitvé ’vá sā́gamiṣṭhā práty ávartim dāśúṣe śáṃ-bhaviṣṭhā ||
Do not measure out your coming by what is merely arranged; you are the most ready to arrive—now, here—when you are praised, O Ashvins. In the daylight and in the nearness of our dwelling, come with your help; turn back the obstruction for the giver, O most bringers of peace.
न । सं॒स्कृ॒तम् । प्र । मि॒मी॒तः॒ । गमि॑ष्ठा । अन्ति॑ । नू॒नम् । अ॒श्विना॑ । उप॑ऽस्तुता । इ॒ह । दि॒वा॑ । अ॒भि॒ऽपि॒त्वे । अव॑सा । आऽग॑मिष्ठा । प्रति॑ । अव॑र्तिम् । दा॒शुषे॑ । शम्ऽभ॑विष्ठा ॥न । संस्कृतम् । प्र । मिमीतः । गमिष्ठा । अन्ति । नूनम् । अश्विना । उपस्तुता । इह । दिवा । अभिपित्वे । अवसा । आगमिष्ठा । प्रति । अवर्तिम् । दाशुषे । शम्भविष्ठा ॥na | saṃskṛtam | pra | mimītaḥ | gamiṣṭhā | anti | nūnam | aśvinā | upa-stutā | iha | divā | abhi-pitve | avasā | āgamiṣṭhā | prati | avartim | dāśuṣe | śam-bhaviṣṭhā