Sukta 5.76
आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः । अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छ ॥
आ भा॑त्य॒ग्निरु॒षसा॒मनी॑क॒मुद्विप्रा॑णां देव॒या वाचो॑ अस्थुः । अ॒र्वाञ्चा॑ नू॒नं र॑थ्ये॒ह या॑तं पीपि॒वांस॑मश्विना घ॒र्ममच्छ॑ ॥
ā́ bhāty agnír uṣásām ánīkam úd viprāṇāṃ deva-yā́ vā́co asthuḥ | arvā́ñcā nūnáṃ rathyéhá yātaṃ pīpivā́ṃsam aśvinā gharmám áccha ||
Agni shines forth, the face of the Dawns; and the godward words of the seers rise up. Turn hither now with your chariot—O Ashvins—towards the warming nectar that is made ready and well-filled for you.
आ । भा॒ति॒ । अ॒ग्निः । उ॒षसा॑म् । अनी॑कम् । उत् । विप्रा॑णाम् । दे॒व॒ऽयाः । वाचः॑ । अ॒स्थुः॒ । अ॒र्वाञ्चा॑ । नू॒नम् । र॒थ्या॒ । इ॒ह । या॒त॒म् । पी॒पि॒ऽवांस॑म् । अ॒श्वि॒ना॒ । घ॒र्मम् । अच्छ॑ ॥आ । भाति । अग्निः । उषसाम् । अनीकम् । उत् । विप्राणाम् । देवयाः । वाचः । अस्थुः । अर्वाञ्चा । नूनम् । रथ्या । इह । यातम् । पीपिवांसम् । अश्विना । घर्मम् । अच्छ ॥ā | bhāti | agniḥ | uṣasām | anīkam | ut | viprāṇām | deva-yāḥ | vācaḥ | asthuḥ | arvāñcā | nūnam | rathyā | iha | yātam | pīpi-vāṃsam | aśvinā | gharmam | accha