Sukta 5.75
अस्मिन्यज्ञे अदाभ्या जरितारं शुभस्पती । अवस्युमश्विना युवं गृणन्तमुप भूषथो माध्वी मम श्रुतं हवम् ॥
अ॒स्मिन्य॒ज्ञे अ॑दाभ्या जरि॒तारं॑ शुभस्पती । अ॒व॒स्युम॑श्विना यु॒वं गृ॒णन्त॒मुप॑ भूषथो॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥
asmín yajñé adā́bhyā jaritā́raṃ śúbhaspatī | avasyúm aśvinā yuváṃ gṛṇántaṃ úpa bhūṣatho mā́dhvī mama śrutáṃ hávam ||
In this sacrifice, O invincible ones, O lords of splendour, do you Aśvins come near and strengthen the singer who seeks your protection and utters the praise. Hear my honeyed call.
अ॒स्मिन् । य॒ज्ञे । अ॒दा॒भ्या॒ । ज॒रि॒तार॑म् । शु॒भः॒ । प॒ती॒ इति॑ । अ॒व॒स्युम् । अ॒श्वि॒ना॒ । यु॒वम् । गृ॒णन्त॑म् । उप॑ । भू॒ष॒थः॒ । माध्वी॒ इति॑ । मम॑ । श्रुत॑म् । हव॑म् ॥अस्मिन् । यज्ञे । अदाभ्या । जरितारम् । शुभः । पती इति । अवस्युम् । अश्विना । युवम् । गृणन्तम् । उप । भूषथः । माध्वी इति । मम । श्रुतम् । हवम् ॥asmin | yajñe | adābhyā | jaritāram | śubhaḥ | patī iti | avasyum | aśvinā | yuvam | gṛṇantam | upa | bhūṣathaḥ | mādhvī iti | mama | śrutam | havam