Sukta 5.75
अभूदुषा रुशत्पशुराग्निरधाय्यृत्वियः । अयोजि वां वृषण्वसू रथो दस्रावमर्त्यो माध्वी मम श्रुतं हवम् ॥
अभू॑दु॒षा रुश॑त्पशु॒राग्निर॑धाय्यृ॒त्विय॑: । अयो॑जि वां वृषण्वसू॒ रथो॑ दस्रा॒वम॑र्त्यो॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥
abhūd uṣā́ ruśát-paśur ā́gnír adhāyy ṛtvíyaḥ | áyoji vāṃ vṛṣaṇvasū rathó dasrāv amártyo mā́dhvī máma śrutáṃ hávam ||
Dawn has arisen, luminous with her shining herds of Light; and Agni, the power of the right season, has been kindled within. For you two, O strong and opulent Ashvins, the chariot is yoked—O wonder‑workers, immortal—come with the honeyed delight; hear my call that has been rightly uttered.
अभू॑त् । उ॒षा । रुश॑त्ऽपशुः । आ । अ॒ग्निः । अ॒धा॒यि॒ । ऋ॒त्वियः॑ । अयो॑जि । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । रथः॑ । द॒स्रौ॒ । अम॑र्त्यः । माध्वी॒ इति॑ । मम॑ । श्रुत॑म् । हव॑म् ॥अभूत् । उषा । रुशत्पशुः । आ । अग्निः । अधायि । ऋत्वियः । अयोजि । वाम् । वृषण्वसू इति वृषण्वसू । रथः । दस्रौ । अमर्त्यः । माध्वी इति । मम । श्रुतम् । हवम् ॥abhūt | uṣā | ruśat-paśuḥ | ā | agniḥ | adhāyi | ṛtviyaḥ | ayoji | vām | vṛṣaṇvasūit ivṛṣaṇ-vasū | rathaḥ | dasrau | amartyaḥ | mādhvī iti | mama | śrutam | havam