Sukta 5.75
अश्विनावेह गच्छतं नासत्या मा वि वेनतम् । तिरश्चिदर्यया परि वर्तिर्यातमदाभ्या माध्वी मम श्रुतं हवम् ॥
अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतम् । ति॒रश्चि॑दर्य॒या परि॑ व॒र्तिर्या॑तमदाभ्या॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥
aśvināvéha gácchataṃ nā́satyā mā́ ví venatam | tiráś cid aryáyā pári vartír yātam adā́bhyā mā́dhvī mama śrutáṃ hávam ||
Come here, O Aśvins, O Nāsatyas; do not turn away from us. Even if the path is crossed and encircled by hostile movements, come, O invincible ones—hear my honeyed call.
अश्वि॑नौ । आ । इ॒ह । ग॒च्छ॒त॒म् । नास॑त्या । मा । वि । वे॒न॒त॒म् । ति॒रः । चि॒त् । अ॒र्य॒ऽया । परि॑ । व॒र्तिः । या॒त॒म् । अ॒दा॒भ्या॒ । माध्वी॒ इति॑ । मम॑ । श्रुत॑म् । हव॑म् ॥अश्विनौ । आ । इह । गच्छतम् । नासत्या । मा । वि । वेनतम् । तिरः । चित् । अर्यया । परि । वर्तिः । यातम् । अदाभ्या । माध्वी इति । मम । श्रुतम् । हवम् ॥aśvinau | ā | iha | gacchatam | nāsatyā | mā | vi | venatam | tiraḥ | cit | arya-yā | pari | vartiḥ | yātam | adābhyā | mādhvī iti | mama | śrutam | havam