Sukta 5.75
आ वां नरा मनोयुजोऽश्वासः प्रुषितप्सवः । वयो वहन्तु पीतये सह सुम्नेभिरश्विना माध्वी मम श्रुतं हवम् ॥
आ वां॑ नरा मनो॒युजोऽश्वा॑सः प्रुषि॒तप्स॑वः । वयो॑ वहन्तु पी॒तये॑ स॒ह सु॒म्नेभि॑रश्विना॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥
ā́ vāṃ narā manoyújo’śvāsaḥ pruṣitápsavaḥ | váyo vahantu pītáye sahá sumṇébhiḥ aśvinā mā́dhvī mama śrutáṃ hávam ||
O lords, let your mind-yoked horses, dripping with energizing dew, bring you swiftly for the drinking, together with your happy graces. Hear my honeyed call, O Aśvins.
आ । वा॒म् । न॒रा॒ । म॒नः॒ऽयुजः॑ । अश्वा॑सः । प्रु॒षि॒तऽप्स॑वः । वयः॑ । व॒ह॒न्तु॒ । पी॒तये॑ । स॒ह । सु॒म्नेभिः॑ । अ॒श्वि॒ना॒ । माध्वी॒ इति॑ । मम॑ । श्रुत॑म् । हव॑म् ॥आ । वाम् । नरा । मनःयुजः । अश्वासः । प्रुषितप्सवः । वयः । वहन्तु । पीतये । सह । सुम्नेभिः । अश्विना । माध्वी इति । मम । श्रुतम् । हवम् ॥ā | vām | narā | manaḥ-yujaḥ | aśvāsaḥ | pruṣita-psavaḥ | vayaḥ | vahantu | pītaye | saha | sumnebhiḥ | aśvinā | mādhvī iti | mama | śrutam | havam