Sukta 5.75
बोधिन्मनसा रथ्येषिरा हवनश्रुता । विभिश्च्यवानमश्विना नि याथो अद्वयाविनं माध्वी मम श्रुतं हवम् ॥
बो॒धिन्म॑नसा र॒थ्ये॑षि॒रा ह॑वन॒श्रुता॑ । विभि॒श्च्यवा॑नमश्विना॒ नि या॑थो॒ अद्व॑याविनं॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥
bódhin manasā rathyé iṣirā́ havanaśrutā́ | víbhiś cyávānam aśvinā ní yātho ádvayāvinaṃ mā́dhvī mama śrutáṃ hávam ||
Awake in mind, swift on the chariot-road, hearers of the call—O Aśvins, with your powers you set right Cyavāna, the undivided one. Hear my honeyed invocation.
बो॒धित्ऽम॑नसा । र॒थ्या॑ । इ॒षि॒रा । ह॒व॒न॒ऽश्रुता॑ । विऽभिः॑ । च्यवा॑नम् । अ॒श्वि॒ना॒ । नि । या॒थः॒ । अद्व॑याविनम् । माध्वी॒ इति॑ । मम॑ । श्रुत॑म् । हव॑म् ॥बोधित्मनसा । रथ्या । इषिरा । हवनश्रुता । विभिः । च्यवानम् । अश्विना । नि । याथः । अद्वयाविनम् । माध्वी इति । मम । श्रुतम् । हवम् ॥bodhit-manasā | rathyā | iṣirā | havana-śrutā | vi-bhiḥ | cyavānam | aśvinā | ni | yāthaḥ | advayāvinam | mādhvī iti | mama | śrutam | havam