Sukta 5.75
सुष्टुभो वां वृषण्वसू रथे वाणीच्याहिता । उत वां ककुहो मृगः पृक्षः कृणोति वापुषो माध्वी मम श्रुतं हवम् ॥
सु॒ष्टुभो॑ वां वृषण्वसू॒ रथे॒ वाणी॒च्याहि॑ता । उ॒त वां॑ ककु॒हो मृ॒गः पृक्ष॑: कृणोति वापु॒षो माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥
suṣṭúbho vāṃ vṛṣaṇvasū ráthe vāṇī́cy ā́hitā | utá vāṃ kakúho mṛgáḥ pṛ́kṣaḥ kṛṇoti vā́puṣo mā́dhvī mama śrutáṃ hávam ||
Your well-shaped praises are set upon your chariot, O lords of force and plenitude. And the high-crested swift one makes for you a shining form—hear my honeyed call.
सु॒ऽस्तुभः॑ । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । रथे॑ । वाणी॑ची । आहि॑ता । उ॒त । वा॒म् । क॒कु॒हः । मृ॒गः । पृक्षः॑ । कृ॒णो॒ति॒ । वा॒पु॒षः । माध्वी॒ इति॑ । मम॑ । श्रुत॑म् । हव॑म् ॥सुस्तुभः । वाम् । वृषण्वसू इति वृषण्वसू । रथे । वाणीची । आहिता । उत । वाम् । ककुहः । मृगः । पृक्षः । कृणोति । वापुषः । माध्वी इति । मम । श्रुतम् । हवम् ॥su-stubhaḥ | vām | vṛṣaṇvasūitivṛṣaṇ-vasū | rathe | vāṇīcī | āhitā | uta | vām | kakuhaḥ | mṛgaḥ | pṛkṣaḥ | kṛṇoti | vāpuṣaḥ | mādhvī iti | mama | śrutam | havam