Sukta 5.75
आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम् । रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम् ॥
आ नो॒ रत्ना॑नि॒ बिभ्र॑ता॒वश्वि॑ना॒ गच्छ॑तं यु॒वम् । रुद्रा॒ हिर॑ण्यवर्तनी जुषा॒णा वा॑जिनीवसू॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥
ā́ no rátṇāni bíbhratāv aśvinā gácchataṃ yuvám | rudrā híraṇyavartanī juṣāṇā́ vājinīvasū mā́dhvī mama śrutáṃ hávam ||
Come to us, O Aśvins, bearing your treasures. O strong and ardent ones with golden paths, consenting to our offering, O lords of plenitude of force—hear my honeyed call.
आ । नः॒ । रत्ना॑नि । बिभ्र॑तौ । अश्वि॑ना । गच्छ॑तम् । यु॒वम् । रुद्रा॑ । हिर॑ण्यऽवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । जु॒षा॒णा । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । माध्वी॒ इति॑ । मम॑ । श्रुत॑म् । हव॑म् ॥आ । नः । रत्नानि । बिभ्रतौ । अश्विना । गच्छतम् । युवम् । रुद्रा । हिरण्यवर्तनी इति हिरण्यवर्तनी । जुषाणा । वाजिनीवसू इति वाजिनीवसू । माध्वी इति । मम । श्रुतम् । हवम् ॥ā | naḥ | ratnāni | bibhratau | aśvinā | gacchatam | yuvam | rudrā | hiraṇya-vartanī itihiraṇya-vartanī | juṣāṇā | vājinīvasūitivājinī-vasū | mādhvī iti | mama | śrutam | havam