Sukta 5.75
अत्यायातमश्विना तिरो विश्वा अहं सना । दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम श्रुतं हवम् ॥
अ॒त्याया॑तमश्विना ति॒रो विश्वा॑ अ॒हं सना॑ । दस्रा॒ हिर॑ण्यवर्तनी॒ सुषु॑म्ना॒ सिन्धु॑वाहसा॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥
atyā́yātam aśvinā tiró víśvā áhaṃ sánā | dasrā híraṇyavartanī suṣúmnā síndhuvāhasā mā́dhvī mama śrutáṃ hávam ||
Come swiftly, O Aśvins, crossing beyond all barriers, as I have called from of old. O wondrous doers, with golden courses, bearing happy energies and the rivering currents—hear my honeyed invocation.
अ॒ति॒ऽआया॑तम् । अ॒श्वि॒ना॒ । ति॒रः । विश्वाः॑ । अ॒हम् । सना॑ । दस्रा॑ । हिर॑ण्यऽवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । सुऽसु॑म्ना । सिन्धु॑ऽवाहसा । माध्वी॒ इति॑ । मम॑ । श्रुत॑म् । हव॑म् ॥अतिआयातम् । अश्विना । तिरः । विश्वाः । अहम् । सना । दस्रा । हिरण्यवर्तनी इति हिरण्यवर्तनी । सुसुम्ना । सिन्धुवाहसा । माध्वी इति । मम । श्रुतम् । हवम् ॥ati-āyātam | aśvinā | tiraḥ | viśvāḥ | aham | sanā | dasrā | hiraṇya-vartanī itihiraṇya-vartanī | su-sumnā | sindhu-vāhasā | mādhvī iti | mama | śrutam | havam