Sukta 5.75
प्रति प्रियतमं रथं वृषणं वसुवाहनम् । स्तोता वामश्विनावृषिः स्तोमेन प्रति भूषति माध्वी मम श्रुतं हवम् ॥
प्रति॑ प्रि॒यत॑मं॒ रथं॒ वृष॑णं वसु॒वाह॑नम् । : स्तो॒ता वा॑मश्विना॒वृषि॒: स्तोमे॑न॒ प्रति॑ भूषति॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥
práti priyátamaṃ ráthaṃ vṛ́ṣaṇaṃ vasuvā́hanam | stotā́ vāṃ aśvināv ṛ́ṣiḥ stómena práti bhūṣati mā́dhvī mama śrutáṃ hávam ||
Toward your most beloved chariot—strong, bearing plenitudes—the seer who praises you, O Aśvins, adorns his offering with the hymn. Hear my honeyed call that carries delight.
प्रति॑ । प्रि॒यऽत॑मम् । रथ॑म् । वृष॑णम् । व॒सु॒ऽवाह॑नम् । स्तो॒ता । वा॒म् । अ॒श्वि॒नौ॒ । ऋषिः॑ । स्तोमे॑न । प्रति॑ । भू॒ष॒ति॒ । माध्वी॒ इति॑ । मम॑ । श्रुत॑म् । हव॑म् ॥प्रति । प्रियतमम् । रथम् । वृषणम् । वसुवाहनम् । स्तोता । वाम् । अश्विनौ । ऋषिः । स्तोमेन । प्रति । भूषति । माध्वी इति । मम । श्रुतम् । हवम् ॥prati | priya-tamam | ratham | vṛṣaṇam | vasu-vāhanam | stotā | vām | aśvinau | ṛṣiḥ | stomena | prati | bhūṣati | mādhvī iti | mama | śrutam | havam