Sukta 5.74
शमू षु वां मधूयुवास्माकमस्तु चर्कृतिः । अर्वाचीना विचेतसा विभिः श्येनेव दीयतम् ॥
शमू॒ षु वां॑ मधूयुवा॒स्माक॑मस्तु चर्कृ॒तिः । अ॒र्वा॒ची॒ना वि॑चेतसा॒ विभि॑: श्ये॒नेव॑ दीयतम् ॥
śamū́ ṣú vāṃ madhūyuvāsmā́kam astu carkṛtíḥ | arvācīnā́ vicetasā víbhiḥ śyénā iva dīyatam ||
O Aśvins, you who are youthful with the honeyed delight, may your active help be for our peace and wholeness. Turning towards us with your wide discernment, come swiftly with your powers, like a falcon’s sure descent.
शम् । ऊँ॒ इति॑ । सु । वा॒म् । म॒धु॒ऽयु॒वा॒ । अ॒स्माक॑म् । अ॒स्तु॒ । च॒र्कृ॒तिः । अ॒र्वा॒ची॒ना । वि॒ऽचे॒त॒सा॒ । विऽभिः॑ । श्ये॒नाऽइ॑व । दी॒य॒त॒म् ॥शम् । ऊँ इति । सु । वाम् । मधुयुवा । अस्माकम् । अस्तु । चर्कृतिः । अर्वाचीना । विचेतसा । विभिः । श्येनाइव । दीयतम् ॥śam | oṃ iti | su | vām | madhu-yuvā | asmākam | astu | carkṛtiḥ | arvācīnā | vi-cetasā | vi-bh iḥ | śyenāiva | dīyatam