Sukta 5.74
आ वां रथो रथानां येष्ठो यात्वश्विना । पुरू चिदस्मयुस्तिर आङ्गूषो मर्त्येष्वा ॥
आ वां॒ रथो॒ रथा॑नां॒ येष्ठो॑ यात्वश्विना । पु॒रू चि॑दस्म॒युस्ति॒र आ॑ङ्गू॒षो मर्त्ये॒ष्वा ॥
ā́ vāṃ rátho ráthānāṃ yéṣṭho yātvaśvinā | purū́ cíd asmayús tíra ā́ṅgūṣo mártyeṣv ā́ ||
Let your chariot, the foremost among chariots, come here, O Aśvins. Let the many-voiced hymn, seeking you, cross over and arrive among mortals.
आ । वा॒म् । रथः॑ । रथा॑नाम् । येष्ठः॑ । या॒तु॒ । अ॒श्वि॒ना॒ । पु॒रु । चि॒त् । अ॒स्म॒ऽयुः । ति॒रः । आ॒ङ्गू॒षः । मर्त्ये॑षु । आ ॥आ । वाम् । रथः । रथानाम् । येष्ठः । यातु । अश्विना । पुरु । चित् । अस्मयुः । तिरः । आङ्गूषः । मर्त्येषु । आ ॥ā | vām | rathaḥ | rathānām | yeṣṭhaḥ | yātu | aśvinā | puru | cit | asma-yuḥ | tiraḥ | āṅgūṣaḥ | martyeṣu | ā