Sukta 5.74
अश्विना यद्ध कर्हि चिच्छुश्रूयातमिमं हवम् । वस्वीरू षु वां भुजः पृञ्चन्ति सु वां पृचः ॥
अश्वि॑ना॒ यद्ध॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हव॑म् । वस्वी॑रू॒ षु वां॒ भुज॑: पृ॒ञ्चन्ति॒ सु वां॒ पृच॑: ॥
aśvinā yád dha kárhi cic chuśrūyā́tam imáṃ hávam | vasvī́r ū́ ṣu vāṃ bhújaḥ pṛñcánti sú vāṃ pṛ́caḥ ||
O Aśvins, whenever you truly hear this call of ours, then your rich enjoyments and your fulfilling powers pour in abundance; your supports mingle with us for our increase.
अश्वि॑ना । यत् । ह॒ । कर्हि॑ । चि॒त् । शु॒श्रु॒यात॑म् । इ॒मम् । हव॑म् । वस्वीः॑ । ऊँ॒ इति॑ । सु । वा॒म् । भुजः॑ । पृ॒ञ्चन्ति॑ । सु । वा॒म् । पृचः॑ ॥अश्विना । यत् । ह । कर्हि । चित् । शुश्रुयातम् । इमम् । हवम् । वस्वीः । ऊँ इति । सु । वाम् । भुजः । पृञ्चन्ति । सु । वाम् । पृचः ॥aśvinā | yat | ha | karhi | cit | śuśruyātam | imam | havam | vasvīḥ | oṃ iti | su | vām | bhujaḥ | pṛñcanti | su | vām | pṛcaḥ