Sukta 5.74
को वामद्य पुरूणामा वव्ने मर्त्यानाम् । को विप्रो विप्रवाहसा को यज्ञैर्वाजिनीवसू ॥
को वा॑म॒द्य पु॑रू॒णामा व॑व्ने॒ मर्त्या॑नाम् । को विप्रो॑ विप्रवाहसा॒ को य॒ज्ञैर्वा॑जिनीवसू ॥
kó vām adyá purūṇā́m ā́ vavne mártyānām | kó vípro vipravā́hasā kó yajñáir vājinīvasū ||
Who among the many mortals has won you today? Which inspired one has drawn you, O carriers of inspired power? Who by sacrifices has claimed you, O lords of the plenitude of force?
कः । वा॒म् । अ॒द्य । पु॒रू॒णाम् । आ । व॒व्ने॒ । मर्त्या॑नाम् । कः । विप्रः॑ । वि॒प्र॒ऽवा॒ह॒सा॒ । कः । य॒ज्ञैः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥कः । वाम् । अद्य । पुरूणाम् । आ । वव्ने । मर्त्यानाम् । कः । विप्रः । विप्रवाहसा । कः । यज्ञैः । वाजिनीवसू इति वाजिनीवसू ॥kaḥ | vām | adya | purūṇām | ā | vavne | martyānām | kaḥ | vipraḥ | vipra-vāhasā | kaḥ | yajñaiḥ | vājinīvasūitivājinī-vasū