Sukta 5.74
अस्ति हि वामिह स्तोता स्मसि वां संदृशि श्रिये । नू श्रुतं म आ गतमवोभिर्वाजिनीवसू ॥
अस्ति॒ हि वा॑मि॒ह स्तो॒ता स्मसि॑ वां सं॒दृशि॑ श्रि॒ये । नू श्रु॒तं म॒ आ ग॑त॒मवो॑भिर्वाजिनीवसू ॥
ásti hí vām ihá stotā́ smási vāṃ saṃdṛ́śi śríye | nū́ śrutáṃ má ā́ gatam ávobhir vājinīvasū ||
Here indeed you have a praiser; we are yours for the vision and the splendour. Now, having heard (our call), come to me with your helps, O lords of the plenitude of force.
अस्ति॑ । हि । वा॒म् । इ॒ह । स्तो॒ता । स्मसि॑ । वा॒म् । स॒म्ऽदृशि॑ । श्रि॒ये । नु । श्रु॒तम् । मे॒ । आ । ग॒त॒म् । अवः॑ऽभिः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥अस्ति । हि । वाम् । इह । स्तोता । स्मसि । वाम् । सम्दृशि । श्रिये । नु । श्रुतम् । मे । आ । गतम् । अवःभिः । वाजिनीवसू इति वाजिनीवसू ॥asti | hi | vām | iha | stotā | smasi | vām | sam-dṛśi | śṛiye | nu | śrutam | me | ā | gatam | avaḥ-bhiḥ | vājinīvasūitivājinī-vasū