Sukta 5.74
प्र च्यवानाज्जुजुरुषो वव्रिमत्कं न मुञ्चथः । युवा यदी कृथः पुनरा काममृण्वे वध्वः ॥
प्र च्यवा॑नाज्जुजु॒रुषो॑ व॒व्रिमत्कं॒ न मु॑ञ्चथः । युवा॒ यदी॑ कृ॒थः पुन॒रा काम॑मृण्वे व॒ध्व॑: ॥
prá cyavānā́j jujurúṣo vavrím atkáṃ ná muñcathaḥ | yúvā yádī kṛtháḥ púnar ā́ kā́mam ṛṇve vádhvaḥ ||
From Cyavāna, worn with age, you did not loose the enclosing skin as one sheds a garment; rather, when you made him young again, the bride’s desire was fulfilled anew.
प्र । च्यवा॑नात् । जु॒जु॒रुषः॑ । व॒व्रिम् । अत्क॑म् । न । मु॒ञ्च॒थः॒ । युवा॑ । यदि॑ । कृ॒थः । पुनः॑ । आ । काम॑म् । ऋ॒ण्वे॒ । व॒ध्वः॑ ॥प्र । च्यवानात् । जुजुरुषः । वव्रिम् । अत्कम् । न । मुञ्चथः । युवा । यदि । कृथः । पुनः । आ । कामम् । ऋण्वे । वध्वः ॥pra | cyavānāt | jujuruṣaḥ | vavrim | atkam | na | muñcathaḥ | yuvā | yadi | kṛthaḥ | punaḥ | ā | kāmam | ṛṇve | vadhvaḥ