Sukta 5.74
पौरं चिद्ध्युदप्रुतं पौर पौराय जिन्वथः । यदीं गृभीततातये सिंहमिव द्रुहस्पदे ॥
पौ॒रं चि॒द्ध्यु॑द॒प्रुतं॒ पौर॑ पौ॒राय॒ जिन्व॑थः । यदीं॑ गृभी॒तता॑तये सिं॒हमि॑व द्रु॒हस्प॒दे ॥
pauráṃ cíd dhy udaprútam paura paurā́ya jínvathaḥ | yád īṃ gṛbhītá-tātaye siṃhám iva drúhaḥ padé ||
Even one who is of the city (bound to the common outer life), though sunk in the flood, you strengthen for his fellow-citizen. When he is seized for hostile assault, you free him like a lion from the footing of the deceiver.
पौ॒रम् । चि॒त् । हि । उ॒द॒ऽप्रुत॑म् । पौर॑ । पौ॒राय॑ । जिन्व॑थः । यत् । ई॒म् । गृ॒भी॒तऽता॑तये । सिं॒हम्ऽइ॑व । द्रु॒हः । प॒दे ॥पौरम् । चित् । हि । उदप्रुतम् । पौर । पौराय । जिन्वथः । यत् । ईम् । गृभीततातये । सिंहम्इव । द्रुहः । पदे ॥pauram | cit | hi | uda-prutam | paura | paurāya | jinvathaḥ | yat | īm | gṛbhīta-tātaye | siṃham-iva | druhaḥ | pade