Sukta 5.74
कं याथः कं ह गच्छथः कमच्छा युञ्जाथे रथम् । कस्य ब्रह्माणि रण्यथो वयं वामुश्मसीष्टये ॥
कं या॑थ॒: कं ह॑ गच्छथ॒: कमच्छा॑ युञ्जाथे॒ रथ॑म् । कस्य॒ ब्रह्मा॑णि रण्यथो व॒यं वा॑मुश्मसी॒ष्टये॑ ॥
káṃ yā́thaḥ káṃ ha gacchathaḥ kám ácchā yuñjā́the rátham | kásya bráhmāṇi raṇyatho vayáṃ vām uśmasī́ṣṭaye ||
To whom do you go, to whom indeed do you travel; towards whom do you yoke your chariot? In whose mantras do you take delight? We long for you two for the fulfilment of the sacrifice and the inner offering.
कम् । या॒थः॒ । कम् । ह॒ । ग॒च्छ॒थः॒ । कम् । अच्छ॑ । यु॒ञ्जा॒थे॒ इति॑ । रथ॑म् । कस्य॑ । ब्रह्मा॑णि । र॒ण्य॒थः॒ । व॒यम् । वा॒म् । उ॒श्म॒सि॒ । इ॒ष्टये॑ ॥कम् । याथः । कम् । ह । गच्छथः । कम् । अच्छ । युञ्जाथे इति । रथम् । कस्य । ब्रह्माणि । रण्यथः । वयम् । वाम् । उश्मसि । इष्टये ॥kam | yāthaḥ | kam | ha | gacchathaḥ | kam | accha | yuñjātheiti | ratham | kasya | brahmāṇi | raṇyathaḥ | vayam | vām | uśmasi | iṣṭaye