Sukta 5.74
कुह त्या कुह नु श्रुता दिवि देवा नासत्या । कस्मिन्ना यतथो जने को वां नदीनां सचा ॥
कुह॒ त्या कुह॒ नु श्रु॒ता दि॒वि दे॒वा नास॑त्या । कस्मि॒न्ना य॑तथो॒ जने॒ को वां॑ न॒दीनां॒ सचा॑ ॥
kúha tyā́ kúha nú śrutā́ diví devā́ nā́satyā | kásminn ā́ yatatho jáne kó vāṃ nadī́nāṃ sácā ||
Where are you two, where now are you heard of, O divine Nāsatyas, in heaven? To which people do you move? Who keeps company with you along the flowing currents (of life and consciousness)?
कुह॑ । त्या । कुह॑ । नु । श्रु॒ता । दि॒वि । दे॒वा । नास॑त्या । कस्मि॑न् । आ । य॒त॒थः॒ । जने॑ । कः । वा॒म् । न॒दीना॑म् । सचा॑ ॥कुह । त्या । कुह । नु । श्रुता । दिवि । देवा । नासत्या । कस्मिन् । आ । यतथः । जने । कः । वाम् । नदीनाम् । सचा ॥kuha | tyā | kuha | nu | śrutā | divi | devā | nāsatyā | kasmin | ā | yatathaḥ | jane | kaḥ | vām | nadīnām | sacā