Sukta 5.74
कूष्ठो देवावश्विनाद्या दिवो मनावसू । तच्छ्रवथो वृषण्वसू अत्रिर्वामा विवासति ॥
कूष्ठो॑ देवावश्विना॒द्या दि॒वो म॑नावसू । तच्छ्र॑वथो वृषण्वसू॒ अत्रि॑र्वा॒मा वि॑वासति ॥
kū́ṣṭho devāv aśvinā́dyā divó manāvasū | tát chŕavatho vṛṣaṇvasū átrir vām ā́ vivāsati ||
Firm is the station of you two divine Aśvins today—O you who are treasures of the luminous mind from heaven. Hear that call, O mighty bringers of force: Atri kindles worship towards you.
कूऽस्थः॑ । दे॒वौ॒ । अ॒श्वि॒ना॒ । अ॒द्य । दि॒वः । म॒ना॒व॒सू॒ इति॑ । तत् । श्र॒व॒थः॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । अत्रिः॑ । वा॒म् । आ । वि॒वा॒स॒ति॒ ॥कूस्थः । देवौ । अश्विना । अद्य । दिवः । मनावसू इति । तत् । श्रवथः । वृषण्वसू इति वृषण्वसू । अत्रिः । वाम् । आ । विवासति ॥kū-sthaḥ | devau | aśvinā | adya | divaḥ | manāvasūiti | tat | śravathaḥ | vṛṣaṇvasūitivṛṣaṇ-vasū | atriḥ | vām | ā | vivāsati