Sukta 5.73
मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी । यत्समुद्राति पर्षथः पक्वाः पृक्षो भरन्त वाम् ॥
मध्व॑ ऊ॒ षु म॑धूयुवा॒ रुद्रा॒ सिष॑क्ति पि॒प्युषी॑ । यत्स॑मु॒द्राति॒ पर्ष॑थः प॒क्वाः पृक्षो॑ भरन्त वाम् ॥
mádhva ū́ ṣú madhūyuvā rudrā́ síṣakti pipyúṣī | yát samudrā́ti párṣathaḥ pakvā́ḥ pṛ́kṣo bharanta vām ||
Surely the honeyed sweetness, O honey-young Rudras, clings to you—rich and increasing. When you cross beyond the oceanic depths, the ripened draughts bring to you nourishment: the mature powers carry your share of plenitude.
मध्वः॑ । ऊँ॒ इति॑ । सु । म॒धु॒ऽयु॒वा॒ । रुद्रा॑ । सिस॑क्ति । पि॒प्युषी॑ । यत् । स॒मु॒द्रा । अति॑ । पर्ष॑थः । प॒क्वाः । पृक्षः॑ । भ॒र॒न्त॒ । वा॒म् ॥मध्वः । ऊँ इति । सु । मधुयुवा । रुद्रा । सिसक्ति । पिप्युषी । यत् । समुद्रा । अति । पर्षथः । पक्वाः । पृक्षः । भरन्त । वाम् ॥madhvaḥ | oṃ iti | su | madhu-yuvā | rudrā | sisakti | pipyuṣī | yat | samudrā | ati | parṣathaḥ | pakvāḥ | pṛkṣaḥ | bharanta | vām