Sukta 5.73
उग्रो वां ककुहो ययिः शृण्वे यामेषु संतनिः । यद्वां दंसोभिरश्विनात्रिर्नराववर्तति ॥
उ॒ग्रो वां॑ ककु॒हो य॒यिः शृ॒ण्वे यामे॑षु संत॒निः । यद्वां॒ दंसो॑भिरश्वि॒नात्रि॑र्नराव॒वर्त॑ति ॥
ugró vāṃ kakuhó yayíḥ śṛṇvé yā́meṣu saṃ-taníḥ | yád vāṃ daṃsóbhir aśvinā́trir narā́vavártatī ||
Fierce is your summit-cry, your swift going; it is heard in the journeys, the continuous outflow of your help. When Atri, by your wondrous powers, O Aśvins, turns again and again toward you, O heroes, you answer with effective movement.
उ॒ग्रः । वा॒म् । क॒कु॒हः । य॒यिः । शृ॒ण्वे । यामे॑षु । स॒म्ऽत॒निः । यत् । वा॒म् । दंसः॑ऽभिः । अ॒श्वि॒ना॒ । अत्रिः॑ । न॒रा॒ । आ॒ऽव॒वर्त॑ति ॥उग्रः । वाम् । ककुहः । ययिः । शृण्वे । यामेषु । सम्तनिः । यत् । वाम् । दंसःभिः । अश्विना । अत्रिः । नरा । आववर्तति ॥ugraḥ | vām | kakuhaḥ | yayiḥ | śṛṇve | yāmeṣu | sam-taniḥ | yat | vām | daṃsaḥ-bhiḥ | aśvinā | atriḥ | narā | āvavartati