Sukta 5.7
आ यस्ते सर्पिरासुतेऽग्ने शमस्ति धायसे । ऐषु द्युम्नमुत श्रव आ चित्तं मर्त्येषु धाः ॥
आ यस्ते॑ सर्पिरासु॒तेऽग्ने॒ शमस्ति॒ धाय॑से । ऐषु॑ द्यु॒म्नमु॒त श्रव॒ आ चि॒त्तं मर्त्ये॑षु धाः ॥
ā́ yás te sarpir-āsuté ’gne śám asti dhā́yase | ā́ eṣú dyumnám utá śrávaḥ ā́ cíttaṃ mártyeṣu dhāḥ ||
He who pours out for you the clarified richness, O Agni—there is peace for your establishing power; place then among these mortals the luminous plenitude, and the inspired hearing, and the awakened mind.
आ । यः । ते॒ । स॒र्पिः॒ऽआ॒सु॒ते॒ । अग्ने॑ । शम् । अस्ति॑ । धाय॑से । आ । ए॒षु॒ । द्यु॒म्नम् । उ॒त । श्रवः॑ । आ । चि॒त्तम् । मर्त्ये॑षु । धाः॒ ॥आ । यः । ते । सर्पिःआसुते । अग्ने । शम् । अस्ति । धायसे । आ । एषु । द्युम्नम् । उत । श्रवः । आ । चित्तम् । मर्त्येषु । धाः ॥ā | yaḥ | te | sarpiḥ-āsute | agne | śam | asti | dhāyase | ā | eṣu | dyumnam | uta | śravaḥ | ā | cittam | martyeṣu | dhāḥ