Sukta 5.7
शुचिः ष्म यस्मा अत्रिवत्प्र स्वधितीव रीयते । सुषूरसूत माता क्राणा यदानशे भगम् ॥
शुचि॑: ष्म॒ यस्मा॑ अत्रि॒वत्प्र स्वधि॑तीव॒ रीय॑ते । सु॒षूर॑सूत मा॒ता क्रा॒णा यदा॑न॒शे भग॑म् ॥
śúciḥ ṣmā yásmai atrí-vat prá svadhítīva rī́yate | suṣū́r asūta mātā́ krāṇā́ yád ānaśé bhágam ||
Pure indeed is he for whom—like for Atri—he rushes forth like a well-whetted axe; then the fruitful mother brings to birth, growing in power, when she attains the portion of delight and felicity.
शुचिः॑ । स्म॒ । यस्मै॑ । अ॒त्रि॒ऽवत् । प्र । स्वधि॑तिःऽइव । रीय॑ते । सु॒ऽसूः । अ॒सू॒त॒ । मा॒ता । क्रा॒णा । यत् । आ॒न॒शे । भग॑म् ॥शुचिः । स्म । यस्मै । अत्रिवत् । प्र । स्वधितिःइव । रीयते । सुसूः । असूत । माता । क्राणा । यत् । आनशे । भगम् ॥śuciḥ | sma | yasmai | atri-vat | pra | svadhitiḥ-iva | rīyate | su-sūḥ | asūta | mātā | krāṇā | yat | ānaśe | bhagam