Sukta 5.7
इति चिन्मन्युमध्रिजस्त्वादातमा पशुं ददे । आदग्ने अपृणतोऽत्रिः सासह्याद्दस्यूनिषः सासह्यान्नॄन् ॥
इति॑ चिन्म॒न्युम॒ध्रिज॒स्त्वादा॑त॒मा प॒शुं द॑दे । आद॑ग्ने॒ अपृ॑ण॒तोऽत्रि॑: सासह्या॒द्दस्यू॑नि॒षः सा॑सह्या॒न्नॄन् ॥
íti cit manyúm adhríjas tvā́dātam ā́ paśúṃ dade | ā́d agne ápṛṇato ’tríḥ sāsahyā́d dásyūn íṣaḥ sāsahyā́n nṝ́n ||
Thus even the unkindled (or the ill-ordered) gives up his wrath and offers the living power won through you. Then, O Agni, Atri—unfailing in the giving—would overpower the dasyus: he would win the impulsions of increase, he would win the true men (the strong soul-forces).
इति॑ । चि॒त् । म॒न्युम् । अ॒ध्रिजः॑ । त्वाऽदा॑तम् । आ । प॒शुम् । द॒दे॒ । आत् । अ॒ग्ने॒ । अपृ॑णतः । अत्रिः॑ । स॒स॒ह्या॒त् । दस्यू॑न् । इ॒षः । स॒स॒ह्या॒त् । नॄन् ॥इति । चित् । मन्युम् । अध्रिजः । त्वादातम् । आ । पशुम् । ददे । आत् । अग्ने । अपृणतः । अत्रिः । ससह्यात् । दस्यून् । इषः । ससह्यात् । नॄन् ॥iti | cit | manyum | adhrijaḥ | tvādātam | ā | paśum | dade | āt | agne | apṛṇataḥ | atriḥ | sasahyāt | dasyūn | iṣaḥ | sasahyāt | nṝn