Sukta 5.7
स स्मा कृणोति केतुमा नक्तं चिद्दूर आ सते । पावको यद्वनस्पतीन्प्र स्मा मिनात्यजरः ॥
स स्मा॑ कृणोति के॒तुमा नक्तं॑ चिद्दू॒र आ स॒ते । पा॒व॒को यद्वन॒स्पती॒न्प्र स्मा॑ मि॒नात्य॒जर॑: ॥
sá smā kṛṇoti ketúm ā́ náktaṃ cid dūrā́ ā́ saté | pāvakó yád vanaspátīn prá smā minā́ty ájaraḥ ||
He indeed fashions a sign of light, even in the night, and it is seen from far away; the purifier, the ageless one, when he presses forward and breaks open the lords of the forest, releases the hidden blaze.
सः । स्म॒ । कृ॒णो॒ति॒ । के॒तुम् । आ । नक्त॑म् । चि॒त् । दू॒रे । आ । स॒ते । पा॒व॒कः । यत् । वन॒स्पती॑न् । प्र । स्म॒ । मि॒नाति॑ । अ॒जरः॑ ॥सः । स्म । कृणोति । केतुम् । आ । नक्तम् । चित् । दूरे । आ । सते । पावकः । यत् । वनस्पतीन् । प्र । स्म । मिनाति । अजरः ॥saḥ | sma | kṛṇoti | ketum | ā | naktam | cit | dūre | ā | sate | pāvakaḥ | yat | vanaspatīn | pra | sma | mināti | ajaraḥ