Sukta 5.7
सं यदिषो वनामहे सं हव्या मानुषाणाम् । उत द्युम्नस्य शवस ऋतस्य रश्मिमा ददे ॥
सं यदि॒षो वना॑महे॒ सं ह॒व्या मानु॑षाणाम् । उ॒त द्यु॒म्नस्य॒ शव॑स ऋ॒तस्य॑ र॒श्मिमा द॑दे ॥
saṃ yadiṣó vanā́mahe saṃ havyā́ mā́nuṣāṇām | utá dyumnásya śávasā ṛtásya raśmím ā́ dade ||
When we gather together the impulsions of increase, and also the human offerings, then by the force of luminous power he places within us the ray of ṛta—the straight thread of the Truth-order.
सम् । यत् । इ॒षः । वना॑महे । सम् । ह॒व्या । मानु॑षाणाम् । उ॒त । द्यु॒म्नस्य॑ । शव॑सा । ऋ॒तस्य॑ । र॒श्मिम् । आ । द॒दे॒ ॥सम् । यत् । इषः । वनामहे । सम् । हव्या । मानुषाणाम् । उत । द्युम्नस्य । शवसा । ऋतस्य । रश्मिम् । आ । ददे ॥sam | yat | iṣaḥ | vanāmahe | sam | havyā | mānuṣāṇām | uta | dyumnasya | śavasā | ṛtasya | raśmim | ā | dade