Sukta 5.7
कुत्रा चिद्यस्य समृतौ रण्वा नरो नृषदने । अर्हन्तश्चिद्यमिन्धते संजनयन्ति जन्तवः ॥
कुत्रा॑ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने । अर्ह॑न्तश्चि॒द्यमि॑न्ध॒ते सं॑ज॒नय॑न्ति ज॒न्तव॑: ॥
kútrā cid yásya samṛ́tau raṇvā́ náro nṛ́sádane | árhantaś cid yám índhate sáṃjanayanti jántavaḥ ||
Where indeed is that one—at whose coming-together men rejoice in the seat of the human being? Even the worthy kindle him; the creatures generate him into manifestation.
कुत्र॑ । चि॒त् । यस्य॑ । सम्ऽऋ॑तौ । र॒ण्वाः । नरः॑ । नृ॒ऽसद॑ने । अर्ह॑न्तः । चि॒त् । यम् । इ॒न्ध॒ते । स॒म्ऽज॒नय॑न्ति । ज॒न्तवः॑ ॥कुत्र । चित् । यस्य । सम्ऋतौ । रण्वाः । नरः । नृसदने । अर्हन्तः । चित् । यम् । इन्धते । सम्जनयन्ति । जन्तवः ॥kutra | cit | yasya | sam-ṛtau | raṇvāḥ | naraḥ | nṛ-sadane | arhantaḥ | cit | yam | indhate | sam-janayanti | jantavaḥ