Sukta 5.7
सखायः सं वः सम्यञ्चमिषं स्तोमं चाग्नये । वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥
सखा॑य॒: सं व॑: स॒म्यञ्च॒मिषं॒ स्तोमं॑ चा॒ग्नये॑ । वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ॥
sákhāyaḥ sáṃ vaḥ samyáñcam íṣaṃ stómaṃ ca agnáye | várṣiṣṭhāya kṣitīnā́m ūrjó náptre sáhasvate ||
O comrades, gather together your rightly-directed impulsion and your hymn for Agni, the most powerful among the dwellers, the offspring of the Force of plenitude, the mighty one.
सखा॑यः । सम् । वः॒ । स॒म्यञ्च॑म् । इष॑म् । स्तोम॑म् । च॒ । अ॒ग्नये॑ । वर्षि॑ष्ठाय । क्षि॒ती॒नाम् । ऊ॒र्जः । नप्त्रे॑ । सह॑स्वते ॥सखायः । सम् । वः । सम्यञ्चम् । इषम् । स्तोमम् । च । अग्नये । वर्षिष्ठाय । क्षितीनाम् । ऊर्जः । नप्त्रे । सहस्वते ॥sakhāyaḥ | sam | vaḥ | samyañcam | iṣam | stomam | ca | agnaye | varṣiṣṭhāya | kṣi tīnām | ūrjaḥ | naptre | sahasvate