Sukta 5.69
प्रातर्देवीमदितिं जोहवीमि मध्यंदिन उदिता सूर्यस्य । राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ॥
प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य । रा॒ये मि॑त्रावरुणा स॒र्वता॒तेळे॑ तो॒काय॒ तन॑याय॒ शं योः ॥
prā́tar devī́m áditiṃ johavīmi madhyáṃdina ut-itā́ sū́ryasya | rāyé mitrā́varuṇā sarvá-tātā íḷe tokā́ya tanáyāya śáṃ yóḥ ||
At dawn I call the Goddess Aditi; at mid-day, when the Sun has risen. For the soul’s plenitude (rāyí), I adore Mitra and Varuṇa, the all-embracing powers, for the well-being and glad peace of our inner child and the growing offspring of the being.
प्रा॒तः । दे॒वीम् । अदि॑तिम् । जो॒ह॒वी॒मि॒ । म॒ध्यन्दि॑ने । उत्ऽइ॑ता । सूर्य॑स्य । रा॒ये । मि॒त्रा॒व॒रु॒णा॒ । स॒र्वऽता॑ता । ईळे॑ । तो॒काय॑ । तन॑याय । शम् । योः ॥प्रातः । देवीम् । अदितिम् । जोहवीमि । मध्यन्दिने । उत्इता । सूर्यस्य । राये । मित्रावरुणा । सर्वताता । ईळे । तोकाय । तनयाय । शम् । योः ॥prātaḥ | devīm | aditim | johavīmi | madhyandine | ut-itā | sūryasya | rāye | mitrāvaruṇā | sarva-tātā | īḷe | tokāya | tanayāya | śam | yoḥ