Sukta 5.69
या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य । न वां देवा अमृता आ मिनन्ति व्रतानि मित्रावरुणा ध्रुवाणि ॥
या ध॒र्तारा॒ रज॑सो रोच॒नस्यो॒तादि॒त्या दि॒व्या पार्थि॑वस्य । न वां॑ दे॒वा अ॒मृता॒ आ मि॑नन्ति व्र॒तानि॑ मित्रावरुणा ध्रु॒वाणि॑ ॥
yā́ dhartā́rā rájaso rocanásyotá́dityā divyā́ pārthívasya | ná vāṃ devā́ amṛ́tā ā́ minanti vratā́ni mitrā́varuṇā dhruvā́ṇi ||
You who uphold the luminous realm and the wide spaces, O divine Ādityas, of heaven and of earth—no immortal gods can shake your firm ordinances, O Mitra and Varuṇa.
या । ध॒र्तारा॑ । रज॑सः । रो॒च॒नस्य॑ । उ॒त । आ॒दि॒त्या । दि॒व्या । पार्थि॑वस्य । न । वा॒म् । दे॒वाः । अ॒मृताः॑ । आ । मि॒न॒न्ति॒ । व्र॒तानि॑ । मि॒त्रा॒व॒रु॒णा॒ । ध्रु॒वाणि॑ ॥या । धर्तारा । रजसः । रोचनस्य । उत । आदित्या । दिव्या । पार्थिवस्य । न । वाम् । देवाः । अमृताः । आ । मिनन्ति । व्रतानि । मित्रावरुणा । ध्रुवाणि ॥yā | dhartārā | rajasaḥ | rocanasya | uta | ādityā | divyā | pārthivasya | na | vām | devāḥ | amṛtāḥ | ā | minanti | vratāni | mitrāvaruṇā | dhruvāṇi