Sukta 5.69
इरावतीर्वरुण धेनवो वां मधुमद्वां सिन्धवो मित्र दुह्रे । त्रयस्तस्थुर्वृषभासस्तिसृणां धिषणानां रेतोधा वि द्युमन्तः ॥
इरा॑वतीर्वरुण धे॒नवो॑ वां॒ मधु॑मद्वां॒ सिन्ध॑वो मित्र दुह्रे । त्रय॑स्तस्थुर्वृष॒भास॑स्तिसृ॒णां धि॒षणा॑नां रेतो॒धा वि द्यु॒मन्त॑: ॥
irā́vatīr varuṇa dhenávo vāṃ mádhumad vāṃ síndhavo mitra duhre | tráyas tasthur vṛṣabhā́s tisṛ́ṇāṃ dhiṣáṇānāṃ reto-dhā́ ví dyu-mántaḥ ||
O Varuṇa, the nourishing cows of your power, rich in plenty, yield; O Mitra, the honeyed rivers of your being flow forth. Three mighty bulls stand as seed-bearers of the three inspirations, shining out in luminous force.
इरा॑ऽवतीः । व॒रु॒ण॒ । धे॒नवः॑ । वा॒म् । मधु॑ऽमत् । वा॒म् । सिन्ध॑वः । मि॒त्र॒ । दु॒ह्रे॒ । त्रयः॑ । त॒स्थुः॒ । वृ॒ष॒भासः॑ । ति॒सॄ॒णाम् । धि॒षणा॑नाम् । रे॒तः॒ऽधाः । वि । द्यु॒ऽमन्तः॑ ॥इरावतीः । वरुण । धेनवः । वाम् । मधुमत् । वाम् । सिन्धवः । मित्र । दुह्रे । त्रयः । तस्थुः । वृषभासः । तिसॄणाम् । धिषणानाम् । रेतःधाः । वि । द्युमन्तः ॥irāvatīḥ | varuṇa | dhenavaḥ | vām | madhu-mat | vām | sindhavaḥ | mitra | duhre | trayaḥ | tasthuḥ | vṛṣabhāsaḥ | tisṝṇām | dhiṣaṇānām | retaḥ-dhāḥ | vi | dyu-mantaḥ