Sukta 5.69
त्री रोचना वरुण त्रीँरुत द्यून्त्रीणि मित्र धारयथो रजांसि । वावृधानावमतिं क्षत्रियस्यानु व्रतं रक्षमाणावजुर्यम् ॥
त्री रो॑च॒ना व॑रुण॒ त्रीँरु॒त द्यून्त्रीणि॑ मित्र धारयथो॒ रजां॑सि । वा॒वृ॒धा॒नाव॒मतिं॑ क्ष॒त्रिय॒स्यानु॑ व्र॒तं रक्ष॑माणावजु॒र्यम् ॥
trī́ rocanā́ varuṇa trī́ṃr utá dyū́n trī́ṇi mitra dhārayatho rájāṃsi | vāvṛdhānāv ámatiṃ kṣatríyasya ánu vratáṃ rákṣamāṇāv ajúryam ||
You uphold the three luminous realms, O Varuṇa; and the three days; and the three spaces, O Mitra. Increasing, you guard the unperishing Law, and you drive out the unright thought of the ruler within us, so that sovereignty may follow the divine ordinance.
त्री । रो॒च॒ना । व॒रु॒ण॒ । त्रीन् । उ॒त । द्यून् । त्रीणि॑ । मि॒त्र॒ । धा॒र॒य॒थः॒ । रजां॑सि । व॒वृ॒धा॒नौ । अ॒मति॑म् । क्ष॒त्रिय॑स्य । अनु॑ । व्र॒तम् । रक्ष॑माणौ । अ॒जु॒र्यम् ॥त्री । रोचना । वरुण । त्रीन् । उत । द्यून् । त्रीणि । मित्र । धारयथः । रजांसि । ववृधानौ । अमतिम् । क्षत्रियस्य । अनु । व्रतम् । रक्षमाणौ । अजुर्यम् ॥trī | rocanā | varuṇa | trīn | uta | dyūn | trīṇi | mitra | dhārayathaḥ | rajāṃsi | vavṛdhānau | amatim | kṣatriyasya | anu | vratam | rakṣamāṇau | ajuryam