Sukta 5.67
ते हि सत्या ऋतस्पृश ऋतावानो जनेजने । सुनीथासः सुदानवोंऽहोश्चिदुरुचक्रयः ॥
ते हि स॒त्या ऋ॑त॒स्पृश॑ ऋ॒तावा॑नो॒ जने॑जने । सु॒नी॒थास॑: सु॒दान॑वों॒ऽहोश्चि॑दुरु॒चक्र॑यः ॥
té hí satyā́ ṛta-spṛ́śa ṛtā́vāno jáne-jane | su-nīthā́saḥ su-dā́navo 'ṃhóś cid uru-cákrayaḥ ||
For they are the true ones, touching the Truth-Order; they are possessors of ṛta in every people. With good leading and generous giving, they widen the turning of our path even out of distress.
ते । हि । स॒त्याः । ऋ॒त॒ऽस्पृशः॑ । ऋ॒तऽवा॑नः । जने॑ऽजने । सु॒ऽनी॒थासः॑ । सु॒ऽदान॑वः । अं॒होः । चि॒त् । उ॒रु॒ऽचक्र॑यः ॥ते । हि । सत्याः । ऋतस्पृशः । ऋतवानः । जनेजने । सुनीथासः । सुदानवः । अंहोः । चित् । उरुचक्रयः ॥te | hi | satyāḥ | ṛta-spṛśaḥ | ṛta-vānaḥ | jane--jane | su-nīthāsaḥ | su-dānavaḥ | aṃhoḥ | cit | uru-cakrayaḥ