Sukta 5.67
विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा । व्रता पदेव सश्चिरे पान्ति मर्त्यं रिषः ॥
विश्वे॒ हि वि॒श्ववे॑दसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । व्र॒ता प॒देव॑ सश्चिरे॒ पान्ति॒ मर्त्यं॑ रि॒षः ॥
víśve hí viśvá-vedaso váruṇo mitró aryámā | vratā padéva saścire pā́nti mártyaṃ riṣáḥ ||
For all these are indeed the All-knowing powers—Varuṇa, Mitra, Aryaman. They move in their laws as along a fixed track; they guard the mortal from harm, keeping him within the right path of the Truth.
विश्वे॑ । हि । वि॒श्वऽवे॑दसः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । व्र॒ता । प॒दाऽइ॑व । स॒श्चि॒रे॒ । पान्ति॑ । मर्त्य॑म् । रि॒षः ॥विश्वे । हि । विश्ववेदसः । वरुणः । मित्रः । अर्यमा । व्रता । पदाइव । सश्चिरे । पान्ति । मर्त्यम् । रिषः ॥viśve | hi | viśva-vedasaḥ | varuṇaḥ | mitraḥ | aryamā | vratā | padāiva | saścire | pānti | martyam | riṣaḥ