Sukta 5.67
को नु वां मित्रास्तुतो वरुणो वा तनूनाम् । तत्सु वामेषते मतिरत्रिभ्य एषते मतिः ॥
को नु वां॑ मि॒त्रास्तु॑तो॒ वरु॑णो वा त॒नूना॑म् । तत्सु वा॒मेष॑ते म॒तिरत्रि॑भ्य॒ एष॑ते म॒तिः ॥
kó nú vāṃ mitrā́stuto váruṇo vā tanū́nām | tát su vām éṣate matír átribhya éṣate matíḥ ||
Who now can be left unpraised of you—Mitra, or Varuṇa—in the workings of our embodied being? Therefore toward you indeed the thought-impulse presses; from the Atris this aspiring mind presses toward you.
कः । नु । वा॒म् । मि॒त्र॒ । अस्तु॑तः । वरु॑णः । वा॒ । त॒नूना॑म् । तत् । सु । वा॒म् । आ । ई॒ष॒ते॒ । म॒तिः । अत्रि॑ऽभ्यः । आ । ई॒ष॒ते॒ । म॒तिः ॥कः । नु । वाम् । मित्र । अस्तुतः । वरुणः । वा । तनूनाम् । तत् । सु । वाम् । आ । ईषते । मतिः । अत्रिभ्यः । आ । ईषते । मतिः ॥kaḥ | nu | vām | mitra | astutaḥ | varuṇaḥ | vā | tanūnām | tat | su | vām | ā | īṣate | matiḥ | atri-bhyaḥ | ā | īṣate | matiḥ