Sukta 5.67
आ यद्योनिं हिरण्ययं वरुण मित्र सदथः । धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा ॥
आ यद्योनिं॑ हिर॒ण्ययं॒ वरु॑ण॒ मित्र॒ सद॑थः । ध॒र्तारा॑ चर्षणी॒नां य॒न्तं सु॒म्नं रि॑शादसा ॥
ā́ yád yóniṃ hiraṇyáyaṃ váruṇa mítra sádathaḥ | dhartā́rā carṣaṇīnā́ṃ yántaṃ sumnáṃ riśā́dasā ||
When you take your seat in the golden womb, O Varuṇa and Mitra—upholders of the peoples—then you bring the moving current of felicity, you who devour the harm.
आ । यत् । योनि॑म् । हि॒र॒ण्यय॑म् । वरु॑ण । मित्र॑ । सद॑थः । ध॒र्तारा॑ । च॒र्ष॒णी॒नाम् । य॒न्तम् । सु॒म्नम् । रि॒शा॒द॒सा॒ ॥आ । यत् । योनिम् । हिरण्ययम् । वरुण । मित्र । सदथः । धर्तारा । चर्षणीनाम् । यन्तम् । सुम्नम् । रिशादसा ॥ā | yat | yonim | hiraṇyayam | varuṇa | mitra | sadathaḥ | dhartārā | carṣaṇīnām | yantam | sumnam | riśādasā