Sukta 5.67
बळित्था देव निष्कृतमादित्या यजतं बृहत् । वरुण मित्रार्यमन्वर्षिष्ठं क्षत्रमाशाथे ॥
बळि॒त्था दे॑व निष्कृ॒तमादि॑त्या यज॒तं बृ॒हत् । वरु॑ण॒ मित्रार्य॑म॒न्वर्षि॑ष्ठं क्ष॒त्रमा॑शाथे ॥
baḷitthā́ deva niṣkṛtám ādítyā yajatáṃ bṛhát | váruṇa mítrā́ryaman várṣiṣṭhaṃ kṣatrám āśā́the ||
Indeed, O gods, you Ādityas have shaped a vast and worthy ordinance. O Varuṇa, Mitra, Aryaman—you attain the most abundant sovereignty, the supreme ruling power.
बट् । इ॒त्था । दे॒व॒ । निः॒ऽकृ॒तम् । आदि॑त्या । य॒ज॒तम् । बृ॒हत् । वरु॑ण । मित्र॑ । अर्य॑मन् । वर्षि॑ष्ठम् । क्ष॒त्रम् । आ॒शा॒थे॒ इति॑ ॥बट् । इत्था । देव । निःकृतम् । आदित्या । यजतम् । बृहत् । वरुण । मित्र । अर्यमन् । वर्षिष्ठम् । क्षत्रम् । आशाथे इति ॥baṭ | itthā | deva | niḥ-kṛtam | ādityā | yajatam | bṛhat | varuṇa | mitra | aryaman | varṣiṣṭham | kṣatram | āśātheiti